धृतराष्ट्र उवाच।
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥१॥
पदच्छेदः
धर्म-क्षेत्रे कुरु-क्षेत्रे समवेताः युयुत्सवः।
मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय॥
अन्वयः
सञ्जय धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवः मामकाः च एव पाण्डवाः किम् अकुर्वत॥
आकाङ्क्षा
के अकुर्वत ? मामकाः अकुर्वत ।
पाण्डवाः अकुर्वत ।
कीदृशाः अकुर्वत ? समवेताः अकुर्वत ।
युयुत्सवः अकुर्वत ।
कुत्र अकुर्वत ? कुरुक्षेत्रे अकुर्वत ।
कीदृशे कुरुक्षेत्रे अकुर्वत ? धर्मक्षेत्रे कुरुक्षेत्रे अकुर्वत ।
अस्मिन् श्लोके सम्बोधनपदं किम् ? सञ्जय !
पदपरिचयः पदार्थः च
मूलम् पदपरिचयः हिन्दी English
सञ्जय सञ्जय [पुं-सं-एक] हे संजय O Sanjaya
धर्मक्षेत्रे धर्मक्षेत्र [नपुं-स-एक] धर्मभूमि in the place of pilgrimage
कुरुक्षेत्रे कुरुक्षेत्र [नपुं-स-एक] कुरुक्षेत्र में in Kuruksetra
समवेताः समवेत [पुं-प्र-बहु] एकत्रित assembled
युयुत्सवः युयुत्सु [पुं-प्र-बहु] युद्ध की इच्छा वाले desiring to fight
मामकाः मामक [पुं-प्र-बहु] मेरे my
चैव चैव [अव्य] और and
पाण्डवाः पाण्डव [पुं-प्र-बहु] पाण्डु के पुत्रों ने the sons of Pandu
किम् किम् [नपुं-द्वि-एक] क्या what
अकुर्वत कृ [कर्तरि-लङ्-प्र-बहु-आत्मने] किया did they do
गीता-व्याकरणम्